|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.41. अध्यायः 041
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-41-0x(4361)(46483)
सोऽभ्यगच्छद्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव॥ 7-41-1(46484)
सोऽपिध्यद्दशभिर्बाणैरभिमन्युं दुरासदम्।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव॥ 7-41-2(46485)
पितृपैतामहं कर्म कुर्वाणमतिमानुषम्।
दृष्ट्वार्दितं शरैः कार्ष्मिं त्वदीया हृषिताऽभवन्॥ 7-41-3(46486)
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा।
शिरः प्रच्यावयामास तद्रथात्प्रापतद्भुवि॥ 7-41-4(46487)
कर्णिकारमिवाधूतं वातेनापतितं नगात्।
`कर्णानुजं च सम्प्रेक्ष्य तावका व्यथिताऽभवन्'।
भ्रातरं निहतं दृष्ट्वा कर्णश्चासीत्पराङ्मुखः॥ 7-41-5(46488)
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः।
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे॥ 7-41-6(46489)
ततस्तद्विततं सेन्यं हस्त्यश्वरथपत्तिमत्।
क्रद्धोऽभिमन्युरभिनत्तिग्मतेजा महारथः॥ 7-41-7(46490)
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना।
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्रवत्॥ 7-41-8(46491)
`तिंष्ठ कर्ण महेष्वास कृप दुर्योधनेति च।
द्रोणस्य क्रोशतो राजंस्तदनीकमभज्यत'॥ 7-41-9(46492)
शलभैरिव चाकाशं धाराभिरिव पर्वतः।
अभिमन्यो शरैश्छन्नं न प्राज्ञायत किञ्चन॥ 7-41-10(46493)
तावकानां तु योधानां वध्यतां निशितैः शरैः।
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत॥ 7-41-11(46494)
सौभद्रस्तु ततः शङ्खं प्रध्माय पुरुषर्षभः॥
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ॥ 7-41-12(46495)
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्।
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत॥ 7-41-13(46496)
रथनागाश्वमनुजानर्दयन्निशितैः शरैः।
सम्प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम्॥ 7-41-14(46497)
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः।
स्वानेवाभिमुखान्ध्नन्तः प्राद्रवञ्जीवितार्थिनः॥ 7-41-15(46498)
ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः।
निघ्न्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम्॥ 7-41-16(46499)
सायुधाः साङ्गुलित्राणाः सगदाः साङ्गदा रणे।
दृश्यन्ते बाहवश्चिन्ना हेमाभारणभूषिताः॥ 7-41-17(46500)
शराश्चापानि खङ्गाश्च शरीराणि शिरांसि च।
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः॥ 7-41-18(46501)
सोपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः।
अक्षैर्विमथितैश्चक्रैर्बहुधा पतितैर्युगैः॥ 7-41-19(46502)
शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः।
चर्मचापशरैश्चैव व्यवकीर्णैः समन्तततः॥ 7-41-20(46503)
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते।
अगम्यरूपा पृथिवी क्षणेनासीत्सुदारुणा॥ 7-41-21(46504)
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम्।
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः॥ 7-41-22(46505)
स शब्दो भरतश्चेष्ठ दिशः सर्वा व्यनादयत्॥
सौभद्रश्चाद्रवत्सेनां घ्नन्वराश्वरथद्विपान्॥ 7-41-23(46506)
कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्।
मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत॥ 7-41-24(46507)
विचरन्तं दिशः सर्वाः प्रदिशश्चापि भारत।
तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते॥ 7-41-25(46508)
आददानं गजाश्वानां णां चायुंषि भारत।
क्षमेन भूयः पश्यामः सूर्यं मध्यंदिने यथा॥ 7-41-26(46509)
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान्।
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः॥ 7-41-27(46510)
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत।
`यथा पुरा वह्निसुतः सुरसैन्येषु वीर्यवान्'॥ ॥ 7-41-28(46511)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकचत्वारिंशोऽध्यायः॥ 41 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|